Skip to content
Global sound
बालमोदिनी

बालमोदिनी

by सम्भाषणसन्देशः

Latest episode
रङ्कं करोति राजानम्.....

About this podcast

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.

Episodes

The newest 50 of 745 episodes

  • रङ्कं करोति राजानम्..... · 4 min · Episode 745अकबरचक्रवर्ती कदाचित् बीरबलं प्रशनत्रयस्य उत्तरं ददातु इति अवदत् 'ईश्वरः कुत्र अस्ति? कीदृशः अस्ति? किं च करोति?' इति । सप्ताहानन्तरम् उत्तरं वदिष्यामि इति बीरबलः अवदत् । षड्…
  • गीतामाहात्म्यम् · 3 min · Episode 744कृष्णदत्तः कश्चन धनिकः । तस्य बहुषु सेवकेषु अन्यतमः आसीत् गोविन्दः यः सर्वदा स्वदारिद्र्यं निन्दति स्म । कृष्णदत्तः स्वस्य जन्मदिनस्य निमित्तं सर्वेभ्यः सेवकेभ्यः उपायनानि…
  • चत्वारः रक्षकाः · 3 min · Episode 743श्रीनिधिनामकः कश्चन रत्नवणिक् कदाचित् गृहं प्रत्यागच्छन् आसीत् । कुत्रचित् निर्जने प्रदेशे कश्चन आयुधसहितः चोरः आगतः । भयग्रस्तः श्रीनिधिः प्राणरक्षणार्थं स्वस्यूतं दातुम्…
  • ताना - रीरी · 8 min · Episode 742अकबरचक्रवर्तिनः आस्थाने तोडरमल्लः, बीरबलः, तानसेनः इत्यादयः विद्वांसः आसन् । तानसेनः अद्वितीयः गायकः । कदाचित् तानसेनः 'ताना-रीरी इत्यनयोः बालिकयोः नाम शाश्वतं यथा स्यात् तथा…
  • फलम् अविनयस्य · 3 min · Episode 741यादृशं कर्म तादृशं फलम् इति तु सत्यम् एव । कथायाम् अस्यां कश्चन दुष्टस्वभावः मांसलशरीरश्च मर्कटः वने अन्यान् दुर्बलान् जन्तून् पीडयति स्म । एकदा मर्कटेन पीडितः कश्चित् कुक्कुटः…
  • रोगनिदानम् · 5 min · Episode 740यद्यपि महाराजः अभिनवसेनः समीचीनतया शासनं करोति स्म तथापि सः केषुचित् विषयेषु हठशीलः आसीत् । सः तिन्त्रिणीप्रियः आसीत् । अतः राज्ये यत्र यत्र निम्बवृक्षाः आसन् तान् सर्वान्…
  • पितृमुक्तिः · 5 min · Episode 739पृथिवीसिंहः अतीव सज्जनः धर्मभीरुः कृषिकः आसीत् । कदाचित् तस्य पुत्री एकमासात् रुग्णा जायमाना आसीत् । तस्मिन् एव काले प्रतिदिनं कश्चन वृद्धः वृषभः स्वप्नम् आगत्य 'पुत्र !! अहं…
  • चत्वारः प्रश्नाः · 4 min · Episode 738मणिपुरनगरे मणिवल्लभः शासनं करोति स्म । सः धार्मिकः नीतिमान् बुद्धिमान् च । परन्तु महान् गर्विष्ठः अपि । कदाचित् महाराजं द्रष्टुम् आगतः कश्चन कविः वदति यत् पार्वतीपुरे ग्रामे…
  • अनिवारणीयं प्रारब्धम् · 3 min · Episode 737प्रारब्धम् ईश्वरेणापि निवारयितुं न शक्यते । आश्चर्यं ननु ? इयं कथा तस्याः उदाहरणम् अस्ति । कदाचित् शनिदेवः भगवतः शङ्करस्य समीपं गत्वा अवदत् 'श्वः ब्राह्मे मुहूर्ते अहं भवन्तं…
  • आलस्यं हि.... · 3 min · Episode 736सप्त भ्रातरः । सर्वेऽपि अलसाः । कदाचित् पायसं निर्मितवन्तः । अन्ते ज्ञातं यत् गृहे शर्करा नास्ति इति । इदानीं विपणिं गत्वा शर्करां कः अनयति इति विवादः । कश्चन एकम् उपायं असूचयत्…
  • पीठं चलति · 4 min · Episode 735चाङ्गदेवः कश्चन योगी । अनेकाः सिद्धीः प्राप्तवान् आसीत् । जनाः तं बहुधा प्रशंसन्ति स्म । अतः तस्य मनसि अहङ्कारः उत्पन्नः । तस्मिन् एव काले सतः ज्ञानेश्वरस्य कीर्तिः सर्वत्र…
  • उदारता · 3 min · Episode 734कदचित् मिथिलाधिपः कोशलराज्ये आक्रमणम् अकरोत् । युद्धे कोशलनृपः पराजितः जातः, पलायनम् च अकरोत् । तस्य ग्रहणार्थं सहस्रं सुवर्णमुद्राः दीयन्ते इति उद्घोषितवान् मिथिलाधिपः ।…
  • सर्वेषु अस्ति ईश्वरः · 3 min · Episode 733कदाचित् गुरुकुलस्थाः छात्राः भिक्षाटनार्थं यदा समीपस्थं नगरं गतवन्तः तदा कश्चन उन्मत्तः गजः दृष्टः तैः । सर्वे छात्राः जनाः च इतस्ततः धावितवन्तः । किन्तु तेषु एकः छात्रः ईश्वरः…
  • पाषाणस्य मूल्यम् · 6 min · Episode 732कस्मिंश्चित् गुरुकुले सर्वे शिष्याः ब्रह्मचर्यस्य पालनं कुर्वन्ति स्म । एकदा सुन्दरनामकः बालकः भिक्षाटनस्य अनन्तरं यदा गुरुकुलं प्रति प्रस्थितः तदा मार्गमध्ये एकं सुन्दरं नीलं च…
  • सः एव रक्षकः · 2 min · Episode 731शिवाजिः यद्यपि विनयशीलः, तथापि कदाचित् तस्य मनसि विचारः आगतः 'मया बहूनि प्रजाहितानि कार्याणि कृतानि । अतः प्रजाः सुखेन जीवन्ति । एवं च अहं प्रजापालने दक्षः अस्मि' इति । एवं…
  • पादुकमहिमा · 3 min · Episode 730कदाचित् बहिर्भागतः आगतः श्रीमन्नारायणः पादुके शयनेप्रकोष्ठे एव विसृज्य शेषशयने शयितवान् । यद्यपि पादुकयोः न कोऽपि दोषः, तथापि अशुचिपादुके दृष्ट्वा नारायणस्य किरीटः पादुके…
  • अभिशप्ता चातकी · 4 min · Episode 729चातकी मयूरी च वर्षाराज्ञ्याः पुत्र्यौ । रूपवत्यै गुणवत्यै च मयूर्यै चातकी असूयति स्म । तस्याः अमङ्गलम् अपि चिन्तयति स्म । कदाचित् चातकी मयूर्याः अहितं करोति । तद् ज्ञातवत्या…
  • गुरवे नमः · 3 min · Episode 728पुरा शिवानन्दः इति कश्चन गुरुः आसीत् । यद्यपि सः विद्वान्, तथापि 'सर्वे शिष्याः मयि महत् गौरवं प्रदर्शयेयुः' इति इच्छा आसीत् तस्य । कदाचित् वृक्षम् आरूढवान् कश्चन शिष्यः गुरुं…
  • सर्वदा वन्द्यः शिवः · 2 min · Episode 727कश्चन बालकः मात्रा सह प्रतिदिनं शिवालयं गच्छति स्म । कदाचित् सः बालकः एकाकी देवालयम् अगच्छत् । तत्र शिवलिङ्गस्य उपरि अक्षतान्नं खादन्तं मूषकम् अपश्यत् । सर्वशक्तः अपि शिवः कथं…
  • अनुचिता स्पर्धा · 4 min · Episode 726परमात्मनः सृष्टौ जीविनां गुणाः स्वभावश्च भिन्नाः भवन्ति । परं तेन कारणेन जिविनां मध्ये कदाचित् अपि स्पर्धा न भवेत् । यतः सर्वेषामपि जीविनां सृष्टेः फलं जगत्कल्याणमेव । कथायाम्…
  • सेवायाः महत्त्वम् · 4 min · Episode 725कस्यचन नृपस्य पुत्रः प्रतिदिनं कस्यचित् साधोः समीपं गत्वा तस्य सेवां करोति स्म । साधोः सहवासतः राजकुमारस्य मनसि वैराग्यभावः अपि उपन्नः । परन्तु अग्रे केनचित् कारणेन राजकुमारस्य…
  • अन्धेनैव नीयमानः.... · 4 min · Episode 724कस्यचन ग्रामीणस्य कुम्भकारस्य समीपे बहवः गर्दभाः आसन् । तेषु एकः अन्धः आसीत् । सः अन्धगर्दभः प्रतिदिनम् अन्यैः गर्दभैः सह चरणार्थं ग्रामात् अरण्यं गत्वा सुरक्षितरूपेण…
  • मौनम् · 7 min · Episode 723वयं सर्वे प्रसिद्धं संस्कृतमहाकविं भारविं जानीमः। तस्य प्रमुखं काव्यं ‘किरातार्जुनीयम्’ इति महाकाव्यम् अस्ति। बाल्यकालादेव महामेधावी सः । श्लोकादिरचना बाललीला इव तस्य । इयं कथा…
  • आत्मगुणविकासनम् · 6 min · Episode 722कथायाम् अस्यां कदाचित् सर्वेऽपि प्राणिनः अन्ये जीविवेशेषाश्च सृष्टिकर्तुः ब्रह्मणः समीपं गत्वा परगुणानां प्रशंसां कुर्वन्तः स्वविषये अतृप्तिं च प्राकटयन् । गर्दभः शृगालः भवितुम्…
  • बृहस्पतेः चातुर्यम् · 4 min · Episode 721महाराजः नरसिंहः विद्वान् रसिकश्च आसीत् । प्रतिदिनं तस्य आस्थानं प्रति बहवः याचकाः आगत्य स्वकौशलप्रदर्शनं कृत्वा महाराजात् पारितोषिकं प्राप्नुवन्ति स्म । कदाचित् कश्चित् याचकः…
  • किं न उदेति शृङ्गे? · 5 min · Episode 720परिश्रमशीलः कृषकः गणपतिः श्रद्धया कृषिं करोति स्म । तस्य गृहे वृषभाः, धेनवः, कुक्कुराः, पालितः मार्जारः च आसन् । तस्य पुत्रः जयन्तः कृषिविज्ञानविषये उच्चविद्याविभूषितः…
  • चतुरा वृद्धा · 2 min · Episode 719काचित् वृद्धा आसीत् यस्याः केऽपि बान्धवाः न आसन् । सा एकाकिनी वसति स्म । कदाचित् तस्याः दृष्टिशक्तिः क्षीणा अभवत् । अल्पेन एव काले सा किमपि द्रष्टुम् अशक्ता अभवत् । तां द्रष्टुम्…
  • जीवन्तु शत्रुगणाः · 4 min · Episode 718कदाचित् कश्चन छात्रः कक्ष्यायां निद्रां कुर्वन् आसीत् । शिक्षकः यद्यपि तत् न लक्षितवान् तथापि पार्श्वस्थः छात्रः उत्थाय 'एषः निद्रां कुर्वन् अस्ति' इति शिक्षकम् अवदत् । तदा…
  • वास्तविकी भक्तिः · 3 min · Episode 717संस्कृतभाषायाः सुप्रसिद्धः शास्त्रज्ञः, कविः अप्पय्यदीक्षितः महान् शिवभक्तः आसीत् । कदाचित् स्वस्य शिवभक्तिं परीक्षितुम् इष्टवान् । लोके प्रसिद्धम् अस्ति यत् मनुष्यः…
  • गयः · 2 min · Episode 716भारतीयेषु 'गया' क्षेत्रं पुण्यक्षेत्रम् इति भावना अस्ति । अत्र च जनाः स्वपितृकार्यं कृत्वा कृतकृत्याः भवन्ति । किं भवन्तः जानन्ति तत् क्षेत्रं 'गयः' इति राक्षसस्य नाम्ना एव…
  • विद्या विनयेन शोभते · 5 min · Episode 715श्रोणिकनामकः राजा मगधदेशस्य राजगृहनामके नगरे शासनं करोति स्म । तस्य मन्त्री अभयकुलः अत्यतं चतुरः आसीत् । तस्य राजोद्याने कश्चित् सदाफलः महान् आम्रवृक्षः आसीत् । उद्यानात्…
  • गोमातुः औदार्यम् · 2 min · Episode 714प्रलयकाले सर्वेषामपि चराचरजन्तूनां किमपि आश्रयस्थानम् अपेक्षितं भवति । अतः ते गोमातरं शरणम् अगछन् । भगवतः नारायणस्य पत्नी लक्ष्मीः अन्यं शरणं न गच्छामि इति नितरां गर्विता आसीत् ।…
  • अतिलोभात् विनश्यति · 4 min · Episode 713पुरातनकाले सञ्जीवनामकः महाराजः पुत्रकामनया बहुकालपर्यन्तं ब्राह्मणान् सेवितवान् । सन्तुष्टाः ब्राह्मणाः नारदमहर्षिं राज्ञे पुत्रदानार्थं प्रार्थितवन्तः । नारदमहर्षिः तत्…
  • आत्मानन्दः · 5 min · Episode 712रोहिदासनामा कश्चन चर्मकारः पादरक्षाणां निर्माणं कृत्वा ताः विक्रीय जीवनं करोति स्म । महान् हरिभक्तः सः पादरक्षानिर्माणसमयेऽपि हरिनाम जपित्वा सर्वदा आनन्देन तिष्ठति स्म । तस्य…
  • परिणामे भयङ्करः · 3 min · Episode 711कश्चन कलारसिकः काव्यप्रियः च महाराजः आसीत् । कदाचित् मगधदेशात् काव्यं श्रावयितुम् अस्य महाराजस्य आस्थानम् आगतवान् । यद्यपि सः उत्तमः कविः तथापि तस्य एकः दुरभ्यासः आसीत् यत् सः…
  • केतक्याः पतनम् · 3 min · Episode 710केतकी कदाचित् ब्रह्मणा सह मिलित्वा शिवस्य अन्वेषणविषये असत्यवचनं कथयति । कुपितः शिवः तां शप्तवान् यत् 'इतः परं मम पूजायां तव उपयोगः न भविष्यति' इति । अतः एव तदाप्रभृति शिवस्य…
  • संयमात् एव शान्तिः · 6 min · Episode 709कदाचित् वारणास्याम् आयोजितायां सभायां नानाविधाः चर्चाः शास्त्रार्थसंवादाश्च प्राचलन् 'शान्तिः कस्मात् प्राप्यते' इत्यस्मिन् विषये । सप्त दिनानि यावत् सभा प्रवृत्ता । अन्ते…
  • अक्षुण्णः अधिकारः · 3 min · Episode 708महाराष्ट्रे गाडगेमहाराजनामा कश्चन महापुरुषः अनेकलक्षरूप्यकाणि अन्येभ्यः दानरूपेण स्वीकृत्य तानि दरिद्राणां कल्याणाय व्ययीकरोति स्म । जीर्णानि वस्त्राणि, एकं कम्बलम्, एकं…
  • गोसेवा · 4 min · Episode 707अनादिकालात् अपि भारते गौः पूज्यते स्म । तस्य सेवा रक्षणं च आद्यं कर्तव्यम् इति जनाः मन्यन्ते स्म । अत्रापि प्रजारक्षकः परमोदारः च महाराजः विक्रमादित्यः काञ्चन गावं रक्षति ।…
  • अतिथिसत्कारस्य फलम् · 9 min · Episode 706भारतीयसंस्कृतौ अतिथिसत्कारस्य विशिष्टं महत्त्वम् अस्ति । 'अतिथिदेवो भव' इति वचनम् अस्मान् शिक्षयति यत् अतिथिः देवता इव पूजनीयः । अतिथिसत्कारेण उत्तमं फलम् अपि लभ्यते । तत् फलं…
  • यथा त्वं तथा अहम् · 4 min · Episode 705रत्नपुरनामके ग्रामे काचन वृद्धा वसति स्म । सा अतीव चतुरा बुद्धिमती च । तस्याः चत्वारः पुत्राः एका पुत्री च । पुत्री ज्येष्ठा, पुत्राः कनिष्ठाः च । पुत्र्याः विवाहः जातः । तस्याः…
  • कः मूर्खः ? · 3 min · Episode 704कश्चन वृद्धः नगरात् ग्रामं प्रति आगच्छन् आसीत् । सः सर्वदा चलन् एव गच्छति स्म । नगरात् ग्रामः दूरे आसीत् । यद्यपि वृद्धः मन्दमेव चलितवान् तथापि सः शीघ्रमेव श्रान्तः अभवत् ।…
  • आदर्शसहोद्योगिनः अन्वेषणम् · 6 min · Episode 703प्राचीनभारते नागार्जुननामकः कश्चन प्रसिद्धः आयुर्वेदशिक्षकः आसीत् । सः रसायनशास्त्रेऽपि निपुणः आसीत् । वार्धक्यकारणात् सः पूर्ववत् कार्यं कर्तुं न शक्नोति स्म । अतः सः एकस्य…
  • मुकुटधारी तु मोक्तुकामोSस्ति · 4 min · Episode 702कस्मिंश्चित् वने कश्चन शशः परिवारेण सह निवसति स्म । यद्यपि शशः तस्य पत्नी च बहिः गमनसमये 'बहिः नः गन्तव्यम्' इति स्व-अपत्यानि सूचयतः तथापि शिशवः वारं वारं बहिः गत्वा क्रीडन्ति…
  • सः पापीयान् · 3 min · Episode 701केचन जनाः दुःखदघटनाः शीघ्रमेव विस्मरन्ति । अन्ये तु ताः घटनाः चिरकालं यावत् स्वमनसि वहन्ति । ते क्रोधं द्वेषम् अपमानं दुःखं च न त्यजन्ति । तर्हि पापी कः ? यः दुःखं ददाति सः अथवा…
  • यात्राफलम् · 5 min · Episode 700आनन्दपुरे रामः भीमः च द्वौ स्नेहितौ आस्ताम् । द्वौ अपि परिश्रमेण कृषिं कुरुतः । कदाचित् काशीयात्रां कर्तुं तौ द्वौ निश्चितवन्तौ । रामः गृहजनानां बन्धूनां च साहाय्येन धनसङ्ग्रहणं…
  • रजकोषः प्रजोपयोगाय · 4 min · Episode 699कदाचित् काशीक्षेत्रम् आगतवतः स्वामिनः सच्चिदानन्दस्य प्रवचनं योगानन्दमहाराजस्य आश्रमे जातम् । काशीनरेशः नटवरसिंहः सामान्यवेषं धृत्वा आश्रमं गतवान् । प्रवचनान्तरं महाराजः…
  • कस्य कृते कस्य त्याग‌? · 3 min · Episode 698कस्यचन वीतरागस्य सर्वसङ्गपरित्यागिनः साधोः दर्शनार्थं कश्चन महाराजः गतवान् । स्वसमीपम् अगतवन्तं महाराजं दृष्ट्वा साधुः आश्चर्यान्वितः जातः । 'भवान् त्यागी अस्ति । समाजे त्यागिनः…
  • चतुरः शृगालः · 6 min · Episode 697कस्मिंसश्चित् वने शृगालः, व्याघ्रः, मूषकः, वृकः, नकुलः च मित्रभावेन मिलित्वा निवसन्ति स्म । कदाचित् वनमध्ये भ्रमन्तः ते एकं पुष्टं हरिणम् अपश्यन् । शृगालस्य युक्त्या तं हरिणं…
  • पितृव्यस्य बुद्धिमत्ता · 8 min · Episode 696वणिजः वीरभद्रस्य चत्वारः पुत्राः आसन् । सः पुत्रेषु अतीव स्निह्यति स्म । कदाचित् वीरभद्रः पुत्रेभ्यः दत्तानि अङ्गुलीयकानि प्रतिस्वीकृत्य एकस्यां पेटिकायां निक्षिप्य स्वस्य…

Live, last hour: 15,323 songs on 7,564 stations in 142 countries

Discover the world through radio

More ways to discover (9)

Heard something good? Save it, or open it straight away in Spotify.

Radio 538 luisteren - Live!Popular right now