Show notes
अकबरचक्रवर्तिनः आस्थाने तोडरमल्लः, बीरबलः, तानसेनः इत्यादयः विद्वांसः आसन् । तानसेनः अद्वितीयः गायकः । कदाचित् तानसेनः 'ताना-रीरी इत्यनयोः बालिकयोः नाम शाश्वतं यथा स्यात् तथा करिष्यामि । इतः परं प्रत्येकं रागस्य आलापनसमयेऽपि नियमेन 'ताना-रीरी' इति आलापनं करिष्यामि' इति प्रतिज्ञां कृतवान् । अतः एव अद्यापि सङ्गीतज्ञाः गीतगानात् पूर्वं 'ताना-रीरी' इति आलपनं कुर्वन्ति । तस्य पृष्ठभूमिका अस्ति इयं कथा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
At Emperor Akbar’s court were scholars like Todarmal, Birbal, and Tansen. Tansen was an unparalleled singer. Once he vowed: ‘I will make the names of two girls, Tana and Riri, eternal. Henceforth, in every raga I sing, I will always begin with “Tana-Riri.”’ Therefore, even today musicians invoke “Tana-Riri” before singing. This is the background of that tradition.
Website: share.transistor.fm

