Skip to content
Global sound
बालमोदिनी

बालमोदिनी

गीतामाहात्म्यम्

· 3 min · Episode 744

Show notes

कृष्णदत्तः कश्चन धनिकः । तस्य बहुषु सेवकेषु अन्यतमः आसीत् गोविन्दः यः सर्वदा स्वदारिद्र्यं निन्दति स्म । कृष्णदत्तः स्वस्य जन्मदिनस्य निमित्तं सर्वेभ्यः सेवकेभ्यः उपायनानि दत्तवान् । सन्तुष्टः गोविन्दः उपायनम् उद्घाटितवान् किन्तु तत्र आसीत् भगवद्गीता पुस्तकम् । निराशः सः पुस्तकं पार्श्वे स्थापितवान् ।अनन्तरदिने कृष्णदत्तः गोविन्दम् अपृच्छत् 'भगवद्गीतां पठितवान् वा?’ इति । न इति उत्तरे प्राप्ते पुस्तकम् आनाय्य किञ्चित् वा पठतु इति गोविन्दम् अवदत् कृष्णदत्तः । यदा सः पुस्तकम् उद्घाटितवान् तदा प्रथमपृष्ठे एव रूप्यकाणां गुच्छमेकम् अपश्यत् । गीताम् अपठित्वा एवं माहात्म्यं स्यात् तर्हि सम्पूर्णतया गीता पठ्यते चेत् कीदृशः लाभः भवेत् इति यदा कृष्णदत्तः अवदत् तदा लज्जितः गोविन्दः जीवने आशावादस्य अपि महत्त्वं ज्ञातवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Krishnadatta was a wealthy man. Among his servants was Govinda, who often complained of his poverty. On Krishnadatta’s birthday, he gave gifts to all servants. Govinda opened his gift and found only a Bhagavad Gita, which disappointed him. Later, Krishnadatta asked if he had read it. When Govinda said no, Krishnadatta urged him to open it. On the very first page, Govinda found a bundle of silver coins. Krishnadatta remarked: ‘If such a benefit comes without reading, imagine the gain from reading it fully.’ Ashamed, Govinda realized the importance of hope and positivity in life.

Website: share.transistor.fm

Live, last hour: 13,088 songs on 5,837 stations in 139 countries

Discover the world through radio

More ways to discover (9)

Heard something good? Save it, or open it straight away in Spotify.

★ Artist of the week The fastest riser on the radio this week
Your song here? From € 9 per week →
Radio 538 luisteren - Live!Popular right now