Show notes
यादृशं कर्म तादृशं फलम् इति तु सत्यम् एव । कथायाम् अस्यां कश्चन दुष्टस्वभावः मांसलशरीरश्च मर्कटः वने अन्यान् दुर्बलान् जन्तून् पीडयति स्म । एकदा मर्कटेन पीडितः कश्चित् कुक्कुटः शृगालस्य समीपं साहाय्यार्थम् अगच्छत् । तदा शृगालः दुष्टं मर्कटं दण्डयितुम् एकम् उपायम् अचिन्तयत् । तेन उपायेन सः मर्कटः दण्डितः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wicked, strong-bodied monkey used to trouble weaker animals in the forest. One day, a rooster who was harassed went to a jackal for help. The jackal devised a clever plan to punish the cruel monkey. By that plan, the monkey was duly punished.
Website: share.transistor.fm

