Shownotes
अकबरचक्रवर्ती कदाचित् बीरबलं प्रशनत्रयस्य उत्तरं ददातु इति अवदत् 'ईश्वरः कुत्र अस्ति? कीदृशः अस्ति? किं च करोति?' इति । सप्ताहानन्तरम् उत्तरं वदिष्यामि इति बीरबलः अवदत् । षड् दिनानाम् अनन्तरमपि बीरबलेन उत्तराणि न प्राप्तानि । सप्तमे दिने कश्चन गोपालः नदीतीरे उपविष्टस्य बीरबलस्य चिन्तायाः कारणं ज्ञात्वा 'अहम् उत्तरं वदिष्यामि' इति अवदत् । परेद्यवि सः राजसभाम् आगत्य अकबरस्य त्रयाणां प्रश्नानाम् उत्तरं निदर्शनेन प्रतिपादितवान् । सन्तुष्टः अकबरः तं यथोचितं सत्कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Emperor Akbar once asked Birbal three questions: ‘Where is God? What is He like? What does He do?’ Birbal promised to answer in a week. Even after six days, he had no reply. On the seventh day, a cowherd saw Birbal troubled and offered to answer. Next day, in the royal court, the cowherd explained through demonstration the answers to all three questions. Akbar was satisfied and honored him.
Website: share.transistor.fm

