Show notes
श्रीनिधिनामकः कश्चन रत्नवणिक् कदाचित् गृहं प्रत्यागच्छन् आसीत् । कुत्रचित् निर्जने प्रदेशे कश्चन आयुधसहितः चोरः आगतः । भयग्रस्तः श्रीनिधिः प्राणरक्षणार्थं स्वस्यूतं दातुम् उद्युक्तः । तावता चोरः अवदत् 'भवतः समीपे ये जनाः सन्ति तान् दूरीकरोति चेदेव भवतः स्यूतं प्राप्तुं शक्नोमि' इति । किन्तु श्रीनिधिः एकाकी एव आसीत् । परन्तु श्रीनिधेः परितः चतुरः जनान् पश्यति स्म सः चोरः । चोरस्य विवरणेन श्रीनिधिः ज्ञातवान् यत् मात्रा उपदिष्टस्य स्वेन प्रतिदिनं पठ्यमानस्य श्लोकस्य शक्तिः इयम् इति । स च श्लोकः 'अग्रतो नारसिंहश्च पृष्ठतो गोपनन्दनः। उभयोः पार्श्वयोः स्यातां सशरौ रामलक्ष्मणौ'।। इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Shrinidhi, a jewel merchant, was once stopped by a thief. Though alone, the thief saw four guardians around him. Shrinidhi realized this was the power of the verse he recited daily, taught by his mother:
“Agra-to Narasimha, behind Krishna; On both sides Rama and Lakshmana with bows”.
Website: share.transistor.fm

