Note de episod
कदाचित् अरण्यं गतवता केनचन व्याधेन कश्चन शुकः गृहीतः । सः तं गृहम् आनीय पञ्जरबद्धं कृतवान् । पुनः अरण्यगमनसमये अयं शुकः मित्रेभ्यः कञ्चन सन्देशं प्रापयितुं व्याधं निवेदयति । व्याधः अरण्यं गत्वा शुकसमूहस्य समीपं गत्वा पञ्जरस्थस्य शुकस्य सन्देशं वदति । तदा कश्चन शुकः तद् श्रुत्वा मृतः जातः । खिन्नः व्याधः गृहम् आगत्य प्रवृत्तं सर्वं पञ्जरस्थं शुकं वदति । तदा हा हन्त!! इत्युक्त्वा अयमपि शुकः मृतः जातः । खेदम् अनुभवन् व्याधः शुकं पञ्जरात् बहिः निष्कासयति । तावता शुकः उड्डीय वदति यत् मम मित्रेण मोक्षोपायः सूचितः आसीत् इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A hunter once caught a parrot in the forest and kept it caged. When he returned to the forest, the parrot asked him to deliver a message to its friends. The hunter conveyed it, and one parrot hearing it fell dead. Shocked, the hunter told the caged parrot what had happened. At once, the caged parrot too fell as if dead. Saddened, the hunter released it from the cage. Immediately, the parrot flew away, saying: ‘My friend had shown me the way to freedom.’
Site: share.transistor.fm

